|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.139. अध्यायः 139
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति निमिकृतश्राद्धप्रकारानुवादेन श्राद्धविधिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः।
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा॥ 13-139-1(86782)
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत।
तर्पणं चापि कुर्वन्त तीर्थांभोभिर्यतव्रताः॥ 13-139-2(86783)
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत।
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै॥ 13-139-3(86784)
अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह॥
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः॥ 13-139-4(86785)
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः।
निवापान्नेन पीड्यामः श्रेयो नोत्र विधीयताम्॥ 13-139-5(86786)
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः।
स्वयंभूसदनं यात स वः श्रेयोऽभिधास्यति॥ 13-139-6(86787)
ते सोमवचनाद्देवाः पितृभिः सह भारत।
मेरुशृङ्गे समासीनं पितामहमुपागमन्॥ 13-139-7(86788)
पितर ऊचुः। 13-139-8x(7189)
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्।
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्॥ 13-139-8(86789)
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्।
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति। 13-139-9(86790)
अग्निरुवाच। 13-139-10x(7190)
सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते।
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः॥ 13-139-10(86791)
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन्।
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप॥ 13-139-11(86792)
निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ।
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत॥ 13-139-12(86793)
रक्षांसि नाभिवर्धन्ते स्थिते देवे हुताशने।
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे॥ 13-139-13(86794)
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः।
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः।
सोमायेति च वक्तव्यं तथा पितृमतेति च॥ 13-139-14(86795)
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या।
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा॥ 13-139-15(86796)
जलं प्रतरमाणस्च कीर्तयेत पितामहान्।
नदीमासाद्य कुर्वीत पितॄणां पितृतर्पणम्॥ 13-139-16(86797)
पूर्वं स्ववंशजानां तु कृत्वाऽद्भिस्तर्पणं पुनः।
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्॥ 13-139-17(86798)
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्।
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः॥ 13-139-18(86799)
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः।
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै॥ 13-139-19(86800)
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः॥ 13-139-20(86801)
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा।
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः। 13-139-21(86802)
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः॥
एते च पितरो राजन्नेष श्राद्धविधिः परः। 13-139-22(86803)
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा॥
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्। 13-139-23(86804)
व्याख्याता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम्॥ ॥ 13-139-24(86805)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-139-1 तथानिमौ प्रवृत्ते इति झ.पाठः। तथा पित्र्ये प्रवृत्ते इति ध.पाठः॥ 7-139-15 अन्यवंशजापि पाकार्थं न सङ्ग्राह्य। न ग्राह्याश्चाप्यवंशजा इति ट.थ.पाठ॥ 7-139-18 युक्तेन शकटेन॥ 7-139-19 मासार्धे अमावास्यायाम्। कृष्णपक्षस्येत्युक्तेर्नात्र शुक्लादिमासो विवक्षितः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|